अभ्यासः (मौखिकः
1. अधोलिखितानां प्रश्नानाम् उत्तरं वदत-
(क) – प्रकृते: नियमः कः ?
उत्तर- परिवर्तनम्
(ख) – जीवने सदा किं न तिष्ठति ?
उत्तर- एकरूपता
(ग) – अन्तराले इति पदस्य कः अर्थ ?
उत्तर- बीच में
(घ) – मानसे स्वच्छन्दता कदा पदं धारयति ?
उत्तर- युवास्थायाम्
(ङ)- कः कालः श्रेष्ठः भवति ?
उत्तर- वर्तमानकालः ।
2. अधोलिखितानां मौखिकम् उत्तरम् दत्त-
(क) किशोरावस्था कदा कथ्यते?
उत्तर- किशोरावस्था बालावस्थायुवावस्थयोरन्तराले भवति।
(ख) अनुशासनं कदा अप्रियं भवति?
उत्तर- किशोरावस्थायां अनुशासनं अप्रियं भवति।
(ग) साधनाभावे किं न उचितम्?
उत्तर- साधनाभावे कुण्ठापालनं न उचितम्।
(घ) नीतिपद्यांशस्य कः अर्थः अनुसरणीयः?
उत्तर- नीतिपद्यांशस्य अर्थः यत्नं कर्तव्यमिति अनुसरणीयः।
(ङ) प्रारब्धं के न परित्यजन्ति?
उत्तर- उत्तमजनाः प्रारब्धं न परित्यजन्ति।
(च) शिक्षाकाले किं चिन्तयेत्?
उत्तर- शिक्षाकाले वर्तमानकार्यमेव चिन्तयेत्।
3. उदाहरणमनुसृत्य उत्तरं वदत-
उदाहरणम् – परि + वृत् + ल्युट् = परिवर्तनम्
(क) परि + मार्ज् + ल्युट् = परिमार्जनम्
(ख) परि + शुध् + ल्युट् = परिशोधनम्
(ग) अनु + शील् + ल्युट् = अनुशीलनम्
(घ) अनु + सृ + ल्युट् = अनुसरणम्
(ङ) पा + ल्युट् = पालनम्
4. उदाहरणमनुसृत्य पञ्च पदानि वदत-
उदाहरणम् – कृ + अनीयर् करणीयम्
(क) पठ् + अनीयर् = पठनीयम्
(ख) श्रु + अनीयर् = श्रवणीयम्
(ग) स्मृ + अनीयर् = स्मरणीयम्
(घ) पच् + अनीयर् = पचनीयम्
(ङ) दृश् + अनीयर् = दर्शनीयम्
अभ्यासः (लिखितः
1. – अधोलिखिताम् एकपदेन उत्तर लिखत-
(क) जीवने प्रकृते: नियमः कः ?
(ख) स्वच्छन्दता कुत्र पदं धारयति ?
(ग) किशोरेषु कस्य परिशोधनम् आवश्यकम् भवति ?
(घ) दूरतः अपि दृश्यमानं लक्ष्यं कैः लभ्यते ?
(ङ) श्रेष्ठः कालः कः अस्ति?
उत्तर- (क) परिवर्त्तनम्
(ख) मानसे
(ग ) दिवास्वप्नस्य
(घ) शालिनि:
(ङ) वर्तमानः
2. निम्नलिखितानां पूर्णवाक्येन उत्तरं लिखत-
(क) कृष्णः गीतायां केन रूपेण अवस्थात्रयं निर्दिशति ?
(ख) उच्चविद्यालये अधीयानाः के भवन्ति ?
(ग) शिक्षका: अभिभावकाश्च कस्मिन् विषये दत्तावधानाः न भवन्ति ?
(घ) के स्वमित्राणि विकृतानि कुर्वन्ति ?
(ङ) कथं स्वाभिलाषस्य पूरणं श्रेयः ?
(च) लक्ष्यं प्राप्तुं किं कर्तव्यम् ?
(छ) किशोरजीवनस्य मन्त्रद्वयं किम् ?
उत्तर-
(क) कृष्णः गीतायां कौमारं, यौवनं, जरां च अवस्थात्रयं निर्दिशति।
(ख) उच्चविद्यालये अधीयानाः किशोरा: किशोर्यश्च भवन्ति।
(ग) शिक्षका: अभिभावकाश्च किशोराणां शारीरिको मनोवैज्ञानिकश्च पक्षावुपेक्षितौ विषये दत्तावधानाः न भवन्ति।
(घ) सम्पन्नपरिवारे पालिताः किशोराः यदा कदा स्वमित्राणि विकृतानि कुर्वन्ति।
(ङ) समाजे सुलभानां साधनानामुपयोगेन स्वाभिलाषस्य पूरणं श्रेयः।
(च) लक्ष्यं प्राप्तुं सदानुबन्धशालिभिः महतां जनानां जीवनचरितस्य अनुशीलनम् अनुसरणं च कर्तव्यम्।
(छ) संकल्पस्य दृढता, दृष्टेः व्यापकता चेति किशोरजीवनस्य मन्त्रद्वयं स्यात्।
3. ‘क’ स्तम्भे दत्तानां पदानां समानार्थकं पदं ‘ख’ स्तम्भे दत्तम्/ तौ यथोचितम् योजयत –
उत्तर-
‘क’ | ‘ख’ |
कौमारम् | किशोरावस्था |
यौवनम | युवावस्था |
तदानीम् | तदा |
स्वच्छन्दता | स्वैरवृत्तिः |
अधुना | सम्प्रति |
अन्तराले | मध्ये |
4. रेखांकित – सर्वनाम – पदानि केभ्यः प्रयुक्तानि सन्ति लिखत-
(क) बालावस्था – युवावस्थयोरन्तराले च सा भवति ।
(ख) विद्यालये सामान्या शिक्षाक्रमेण ते परम्परागतं पाठमेवानुसरन्ति ।
(ग) तेषां महत्त्वाकाङ्क्षां वर्धयन्ति ।
(घ) एते च स्वपरिवारं प्रति आक्रोशभावं प्रकटयन्ति ।
(ङ) तेषां शरीरिको मनोवैज्ञानिकश्च पक्षावुपेक्षितौ स्तः ।
उत्तर-
यहाँ रेखांकित सर्वनाम पदों के अर्थ हैं:
(क) सा – यह (किशोरावस्था)
(ख) ते – वे (विद्यार्थी)
(ग) तेषां – उनकी (किशोरों की)
(घ) एते – ये (किशोर)
(ङ) तेषां – उनकी
(किशोरों की)
Leave a Reply