भाषाभ्यासः
रिक्तस्थानानि पूरयित्वा वर्णनं कुरुत ।
मम कुटुम्बम्
एषः/एषा अहम् । अहम् अष्टमीकक्षायां पठामि । अत्र मम कुटुम्बजनाः।एषा मम जननी । एतस्याः नाम सीता । सा रुचिरं भोजनं करोति।एषः मम जनकः । एतस्य नाम रामेशः। सः अध्यापकः रूपेण कार्य करोति।विरामदिने सः मां भ्रमणार्थं नयति । कदाचित् आवां तरणार्थं च गच्छावः ।एषः मम भ्राता । एतस्य नाम अजयः । सः मम अनुजः सप्तमी कक्षायां पठति।एषा मम अनुजा । एषः मम पितामहः । सः कथां कथयति ।अहं पितामहीं चलभाषप्रयोगं पाठयामि । पितामहं च सङ्गणकं पाठयामि ।मम कुटुम्बं मम प्रियम्।
मम गृहम्
मम गृहं दिल्ली नगरे अस्ति । गृहं परितः उन्नताः वृक्षाः सन्ति।गृहे प्रकोष्ठाः सन्ति। प्रथम प्रकोष्ठे आसन्दः, दूरदर्शनं, व्यजनं च वर्तन्ते।पाकगृहे स्थालिकाः, चमसाः, विविधभाण्डानि तथैव चुल्ली, शीतपेटिका च वर्तन्ते।शयनकक्षे तल्पः, विद्युदीपः, व्यजनानि च वर्तन्ते।भित्तौ मम कुटुम्बस्य छायाचित्रम् अस्ति।गृहे मम तथा च भगिन्याः कृते एका अभ्यासिका वर्तते।तत्र उत्पीठिका, आसन्दाः, लेखनवस्तूनि च सन्ति।तथैव तत्र अध्ययनार्थम् उपयुक्ताः विविधग्रन्थाः सन्ति।मम गृहस्य सौधस्य समीपे अस्माकम् एकम् उद्यानं वर्तते।तद् उद्यानं नाम मम गृहस्य शोभा।
Leave a Reply