भाषाभ्यास:
Solutions
श्लोकः 1
1. एकवाक्येन उत्तरत।
अ. विद्यार्थी किं त्यजेत् ?
उत्तरम् : विद्यार्थी सुखं त्यजेत् ।
आ. सुखार्थी किं त्यजेत् ?
उत्तरम् : सुखार्थी विद्या त्यजेत् ।
2. सन्धिविग्रहं कुरुत।
- त्यजेद्विद्याम् – त्यजेत् + विद्याम् ।
 - त्यजेत्सुखम् – त्यजेत् + सुखम् ।
 - कुतो विद्या – कुतः + विद्या ।
 - कुतो विद्यार्थिन: – कुतः + विद्यार्थिनः ।
 
3. समानार्थकशब्दं लिखत।
- विद्या – ज्ञानम्, शिक्षा ।
 - विद्यार्थी – छात्र:, शिष्यः, अन्तेवासी।
 
4. प्रश्ननिर्माणं कुरुत।
अ. सुखार्थी विद्यां न लभते।
उत्तरम् : सुखार्थी किं न लभते ?
आ. विद्यार्थी सुखं न लभते।
उत्तरम् : कः सुखं न लभते ।
श्लोक: 2.
1. एकवाक्येन उत्तरत।
अ.कीदृशं जलं पिबेत् ?
उत्तरम् : वस्त्रपूतं सुखं त्यजेत्।
आ. कीदृशीं वाणी वदेत् ?
उत्तरम् : सत्यपूतां वाणी वदेत्।
2. समानार्थकशब्दं चित्वा लिखत ।
- वाक् – वाणी।
 - पवित्रम् – पूतम्।
 - ऋतम् – सत्यम्।
 - उदकम् – जलम्।
 
3. स्तम्भमेलनं कुरुत।
| विशेषणम् | विशेष्यम् | 
| दृष्टिपूतः | पादः | 
| वस्त्रपूतम् | जलम् | 
| मनः पूतम् | आवरणम् | 
| सत्यपूता | वाणी | 
श्लोकः 3
1. एकवाक्येन उत्तरत।
अ. मनुजः कीदृशं धनं काङ्केत ?
उत्तरम् : मनुज: अलब्ध धनं काक्षेत।
आ. वृद्धं धनं कुत्र निक्षिपेत् ?
उत्तरम् : वृद्धं धनं तीर्थेषु निक्षिपेत्।
2. क्रमानुसारं रचयत।
- धनस्य इच्छा।
 - धनस्य रक्षणम् ।
 - धनस्य वर्धनम् ।
 - तीर्थेषु दानम् ।
 
3. पदपरिचयं लिखत।
1. काङ्क्षत – काङ्क्ष धातुः प्रथमगण: आत्मनेपदं
विधिलिङ्लकार : प्रथमपुरुष: एकवचनम्।
2. रक्षेत् – रक्ष धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार:
प्रथमपुरुष: एकवचनम्।
3. निक्षिपेत् – नि + क्षिप् धातुः प्रथमगण: परस्मैपदं
विधिलिङ्लकारः प्रथमपुरुष: एकवचनम्।
श्लोकः 4
1. एकवाक्येन उत्तरत।
अ. क्रोधं केन जयेत्?
उत्तरम् : क्रोधं अक्रोधेन जयेत्।
आ. दानेन किं जयेत् ?
उत्तरम् : दानेन कदर्य जयेत्।
इ. सत्येन किं जयेत्?
उत्तरम् : सत्येन अनृतं जयेत्।
2. विरुद्धार्थकशब्द लिखत ।
- क्रोध: × अक्रोधः, क्षमा।
 - असाधुः × साधुः।
 - सत्यम् × अनृतम्।
 - दानम् × कदर्यम् ।
 
3. श्लोकात् तृतीयान्तपदानि चित्वा लिखत ।
उत्तरम् : तृतीया – अक्रोधेन, साधुना, दानेन, सत्येन
4. सन्धिविग्रहं कुरुत ।
चानृतम् – च + अनृतम्।
श्लोक: 5
1. एकवाक्येन उत्तरत।
अ. दुःखे कान् पश्येत्?
उत्तरम् : दुःखे दुःखाधिकान् पश्येत्।
आ. सुखाधिकान् कदा पश्येत् ?
उत्तरम् : सुखाधिकान् सुखे पश्येत्।
2. सन्धिविग्रहं कुरुत।
- शत्रुभ्यामिव – शत्रुभ्याम् + इव।
 - नार्पयेत् – न + अर्पयेत्।
 
3 विरुद्धार्थकशब्द लिखत ।
- सुखम्: × दु:खम्।
 - अधिकम् × न्यूनम, अल्पम्, स्तोकम्।
 - शोक: × हर्षः, आनन्दः।
 - शत्रुः × मित्रम्, सखा, सुहृद्।
 
4. जालरेखाचित्रं पूरयत।
श्लोकः 6
1. एकवाक्येन उत्तरत।
अ. प्रत्यहं किं प्रत्यवेक्षेत ?
उत्तरम् : प्रत्यहं आत्मन: चरितं प्रत्यवेक्षेत।
आ. चरितं केन तुल्यं माऽस्तु ?
उत्तरम् : चरितं पशुभि: तुल्यं माऽस्तु।
इ. चरितं केन तुल्यम् अस्तु ?
उत्तरम् : चरितं सत्पुरुषै : तुल्यम् अस्तु।
2. सन्धिं कुरुत।
अ. पशुभिः + तुल्यम्
उत्तरम् :
पशुभिस्तुल्यम् – पशुभिः + तुल्यम् ।
आ. किम् + नु
उत्तरम् :
किन्नु – किम् + नु।
इ. सत्पुरुषैः + इति
उत्तरम् :
सत्पुरुषैरिति – सत्पुरुषैः + इति।
ई. नरः + चरितम्
उत्तरम् :
नरश्चरितमात्मनः – नरः + चरितम् + आत्मनः ।
3 समानार्थकशब्दानां युग्मं चिनुत ।
उत्तरम् :
| अ | आ | 
| प्रत्यहम् | प्रतिदिनम् | 
| नर: | मनुज: | 
| चरितम् | वर्तनम् | 
| पशुः | मृगः | 
| तुल्यः | समः | 
| सत्पुरुषाः | सज्जनाः | 
श्लोकः 7
1. एकवाक्येन उत्तरत।
अ.नृपः अर्थान् कथं चिन्तयेत् ?
उत्तरम् : नृपः अर्थान् बकवत् चिन्तयेत्।
आ. नृपः कथं पराक्रमेत् ?
उत्तरम् : नृपः सिंहवत् पराक्रमेत्।
इ. नृपः कथम् अवलुम्पेत ?
उत्तरम् : नृपः वृकवत् अवलुम्पेत।
ई. नृपः कथं विनिष्पतेत् ?
उत्तरम् : नृपः शशवत् विनिष्यतेत्।
4. सन्धिं कुरुत।
अ. शशवत् + च
उत्तरम् :
शशवच्च – शशवत् + च।
आ. च + अवलुम्पेत
उत्तरम् :
चावलुम्पेत – च + अवलुम्पेत।
इ. चिन्तयेत् + अर्थान् ।
उत्तरम् :
बकवच्चिन्तयेदर्थान् – बकवत् + चिन्तयेत् + अर्थान् ।



Ek number